• वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे‚ न तु खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वा। भवति हि पुनर्भूयान्भेदः फलं प्रति तद्यथा‚ प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदादयः।।       अधीतिबोधाचरणप्रचारणैः दशाश्चतस्रः प्रणयन्नुपाधिभिः। चतुर्दशत्वं कृतवान्कुतः स्वयं न वेद्यि विद्यासु चतुर्दशस्वयम्।।       देवो रूष्टे गुरुस्त्राता, गुरो: रुष्टे न कश्चन। गुरुस्त्राता गुरुस्त्राता, गुरुस्त्राता न संशयः।।       अनागतविधाता च, प्रत्युत्पन्नगतिस्तथाl द्वावेतौ सुखमेवेते, यद्भविष्यो विनश्यतिll